Prosaic study of Chapter 4

अथ श्रीमद्भगवद्गीतायाः चतुर्थाध्यायस्य गद्याभ्यासः

Prosaic study of fourth chapter of श्रीमद्भगवद्गीता

अथ चतुर्थोऽध्यायः ।

अथ चतुर्थः अध्यायः


श्रीभगवानुवाच ।

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४- १॥
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥ ४- २॥
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४- ३॥

(1) श्री-भगवान् उवाच – इमम् अव्ययम् योगम् अहम् विवस्वते प्रोक्तवान् | विवस्वान् मनवे प्राह | मनुः इक्ष्वाकवे अब्रवीय् ॥४-१॥ एवम् राजर्षयः इमम् परम्परा-प्राप्तम् विदुः | परम्-तप सः योगः इह महता कालेन नष्टः ॥४-२॥ सः एव अयम् पुरातनः योगः अद्य मया मे भक्तः सखा च असि इति ते प्रोक्तः | एतद् उत्तमम् रहस्यम् ॥४-३॥

अर्जुन उवाच ।
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४- ४॥

(2) अर्जुनः उवाच – भवतः जन्म अ-परम् | विवस्वतः जन्म परम् | त्वम् आदौ प्रोक्तवान् इति एतत् कथम् विजानीयाम् ? ॥४-४॥

श्रीभगवानुवाच ।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४- ५॥

(3) श्री-भगवान् उवाच – अर्जुन मे तव च बहूनि जन्मानि व्यतीतानि | परम्-तप अहम् सर्वाणि वेद | त्वम् न वेत्थ ॥४-५॥

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ४- ६॥

(4) अजः सन् अपि, अव्यय-आत्मा भूतानाम् ईश्वरः सन् अपि प्रकृतिम् स्वाम् अधिष्ठाय (अथवा स्वाम् प्रकृतिम् अधिष्ठाय) आत्म-मायया संभवामि ॥४-६॥

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४- ७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४- ८॥

(5) भारत यदा यदा हि धर्मस्य ग्लानिः अ-धर्मस्य उत्थानम् भवति तदा अहम् आत्मानम् सृजामि ॥४-७॥ साधूनाम् परित्राणाय दुष्-कृताम् विनाशाय च धर्म-संस्थापनाय (च) युगे युगे संभवामि ॥४-८॥

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४- ९॥

(6) अर्जुन, एवम् मे जन्म कर्म च दिव्यम् (इति) यः तत्त्वतः वेत्ति सः देहम् त्यक्त्वा पुनः जन्म न एति, माम् एति |

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ४- १०॥

(7) वीत-राग-भय-क्रोधाः, मत्-मयाः, माम् उपाश्रिताः, बहवः ज्ञान-तपसा पूताः मत-भावम् आगताः (सन्ति) |

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।

(8) ये यथा मां प्रपद्यन्ते तान् तथा एव अहम् भजामि ॥४-११(अ)॥

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४- ११॥

(9) पार्थ मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते ॥४-११(आ)॥

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ ४- १२॥

(10) कर्मणाम् सिद्धिम् काङ्क्षन्ताः इह देवताः यजन्ते | हि मानुषे लोके कर्मजा सिद्धिः क्षिप्रम् भवति ॥४-१२॥

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ ४- १३॥

(11) मया चातुर्-वर्ण्यम् गुण-कर्म-विभागशः सृष्टम् (अथवा) | तस्य कर्तारम् अपि माम् विद्धि | (तस्य) अ-कर्तारम् (अपि माम्) अव्ययम् विद्धि ॥४-१३॥

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४- १४॥
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४- १५॥

(12) कर्माणि माम् न लिम्पन्ति | मे कर्म-फले स्पृहा न (भवति) | इति यः माम् अभिजानाति, सः कर्मभिः न बध्यते ॥४-१४॥ पूर्वैः मुमुक्षिभिः अपि एवम् ज्ञात्वा कर्म कृतम् | तस्मात् त्वम् पूर्वैः कृतम् कर्म एव पूर्वतरम् कुरु ॥४-१५॥

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४- १६॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ४- १७॥
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४- १८॥

(13) किम् कर्म किम् अ-कर्म इति अत्र कवयः अपि मोहिताः | तत् कर्म ते प्रवक्ष्यामि, यत् ज्ञात्वा अ-शुभात् मोक्ष्यसे ॥४-१६॥ हि (कर्म) कर्मणः अपि बोद्धव्यम्, वि-कर्मणः च बोद्धव्यम्, अ-कर्मणः च बोद्धव्यम् | कर्मणः गतिः गहना ॥४-१७॥ यः कर्मणि अ-कर्म पश्येत्, यः च अ-कर्मणि कर्म (पश्येत्), सः मनुष्येषु बुद्धिमान्, सः कृत्स्न-कर्म-कृत् युक्तः (च) ॥४-१८॥

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ४- १९॥
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ ४- २०॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४- २१॥
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४- २२॥
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ४- २३॥

(14) यस्य सर्वे सम्-आरम्भाः काम-संकल्प-वर्जिताः बुधाः तम् ज्ञान-अग्नि-दग्ध-कर्माणम् पण्डितम् आहुः ॥४-१९॥ (यः) कर्म-फल-आसङ्गम् त्यक्त्वा नित्य-तृप्तः निर्-आश्रयः सः कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति ॥४-२०॥ निर्-आशीः यत्-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः केवलम् शारीरम् कर्म कुर्वन् किल्बिषम् न आप्नोति ॥४-२१॥ यदृच्छा-लाभ-सन्तुष्टः द्वन्द्व-अतीतः वि-मत्सरः सिद्धौ अ-सिद्धौ च समः कृत्वा अपि न निबध्यते ॥४-२२॥ गत-सङ्गस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः यज्ञाय आचरतः कर्म सम्-अग्रम् प्रविलीयते ॥४-२३॥

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४- २४॥

(15) अर्पणम् ब्रह्म हविः ब्रह्म ब्रह्मणा ब्रह्म-अग्नौ हुतम् | तेन ब्रह्म-कर्म-समाधिना ब्रह्म एव गन्तव्यम् (भवति) ॥४-२४॥

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ ४- २५॥

(16) अपरे योगिनः दैवम् यज्ञम् एव पर्युपासते | अपरे यज्ञेन यज्ञम् ब्रह्म-अग्नौ उपजुह्वति ॥४-२५॥

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ ४- २६॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४- २७॥

(17) अन्ये श्रोत्र-आदीनि इन्द्रियाणि संयम-अग्निषु जुह्वति | अन्ये शब्द-आदीन् विषयान् इन्द्रिय-अग्निषु जुह्वति ॥४-२६॥ अपरे सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च ज्ञान-दीपिते आत्म-संयम-योग-अग्नौ जुह्वति ॥४-२७॥

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४- २८॥
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४- २९॥
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४- ३०॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

(18) अपरे द्रव्य-यज्ञाः तपो-यज्ञाः योग-यज्ञाः स्व-अध्याय-ज्ञान-यज्ञाः च संशित-व्रताः यतयः प्राणम् अपाने जुह्वति | तथा अपरे अपानम् प्राणे जुह्वति ॥४-२८॥+॥४-२९(अ)॥ अपरे नियत-आहाराः प्राण-आयाम-परायणाः प्राण-अपान-गती रुद्ध्वा प्राणान् प्राणेषु जुह्वति ॥४-२९(आ)॥+॥४-३०(अ)॥ एते सर्वे अपि यज्ञ-विदः यज्ञ-क्षपित-कल्मषाः यज्ञ-शिष्ट-अमृत-भुजः सनातनम् ब्रह्म यान्ति ॥४-३०(आ)॥+॥४-३१(अ)॥

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ४- ३१॥

(19) कुरु-सत्-तम अ-यज्ञस्य अयम् लोकः न अस्ति, अन्यः कुतः ॥४-३१(आ)॥

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ४- ३२॥

(20) एवम् बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः | तान् सर्वान् कर्म-जान् विद्धि | एवम् ज्ञात्वा विमोक्ष्यसे ॥४-३२॥

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ४- ३३॥

(21) परम्-तप द्रव्य-मयात् यज्ञात् ज्ञान-यज्ञः श्रेयान् | पार्थ सर्वम् अखिलम् कर्म ज्ञाने परिसमाप्यते (अथवा) पार्थ सर्वम् कर्म ज्ञाने अखिलम् परिसमाप्यते ॥४-३३॥

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४- ३४॥

(Some study of this ४- ३४ at this link)
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४- ३५॥ var अशेषाणि

(22) तत् (ज्ञानम्) प्रणिपातेन परिप्रश्नेन सेवया विद्धि ॥४-३४(अ)॥ ज्ञानिनः तत्त्वदर्शिनः ते (तत्) ज्ञानम् उपदेक्ष्यन्ति, यत् ज्ञात्वा पाण्डव एवम् मोहम् पुनः न यास्यसि, येन भूतानि अ-शेषेण आत्मनि द्रक्ष्यसि यथा उ मयि (द्रक्ष्यसि) (अथवा) येन अ-शेषाणि भूतानि आत्मनि द्रक्ष्यसि यथा उ मयि (द्रक्ष्यसि) ॥४-३४(आ)॥+॥४-३५॥

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४- ३६॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४- ३७॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४- ३८॥

(23) सर्वेभ्यः पापेभ्यः पाप-कृत्-तमः अपि असि चेत् सर्वम् वृजिनम् ज्ञान-प्लवेन एव सन्तरिष्यसि ॥४-३६॥ अर्जुन यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते तथा ज्ञान-अग्निः सर्व-कर्माणि भस्मसात् कुरुते ॥४-३७॥ ज्ञानेन सदृशम् पवित्रम् इह न हि विद्यते | योग-संसिद्धः कालेन तत् स्वयम् आत्मनि विन्दति ॥४-३८॥

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४- ३९॥

(24) श्रद्धावान् तत्-परः संयत-इन्द्रियः ज्ञानम् लभते | ज्ञानम् लब्ध्वा अ-चिरेण पराम् शान्तिम् अधिगच्छति ॥४-३९॥

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४- ४०॥

(25) अ-ज्ञः च अ-श्रद्-दधानः च संशय-आत्मा विनश्यति | संशय-आत्मनः अयम् लोकः न अस्ति, न परः (लोकः अस्ति) न सुखम् (अस्ति) ॥४-४०॥

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४- ४१॥
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४- ४२॥

(26) धनञ्जय योग-संन्यस्त-कर्माणम् ज्ञान-सञ्छिन्न-संशयम् आत्मवन्तम् कर्माणि न निबध्नन्ति ॥४-४१॥ तस्मात् भारत अ-ज्ञान-संभूतम् हृत्-स्थम् एनम् आत्मनः संशयम् ज्ञान-असिना छित्वा उत्तिष्ठ, योगम् आतिष्ठ ॥४-४२॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४॥

(27) ॐ तत् सत् | इति श्रीमत्-भगवत्-गीतासु उपनिषत्सु ब्रह्म-विद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे (अयम्) चतुर्थः अध्यायः नाम ज्ञान-कर्म-संन्यास-योगः | 

शुभमस्तु !

-o-O-o-

 

Advertisements