Learning together Sanskrit and GeetA (Chapter 1 verse 12) – Post # 11

Learning together Sanskrit and GeetA (Chapter 1 verse 12) – Post # 11
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकः १२) अध्ययनस्य एकादश (११) सोपानः ।

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१२||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

तस्य सञ्जनयन् हर्षं कुरु-वृद्धः पितामहः ।
सिंह-नादं विनद्य उच्चैः शङ्खं दध्मौ प्रतापवान् ||१२||

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “तस्य हर्षं सञ्जनयन्”  इति वाक्यांशः विशेषणात्मकः । विशेष्य-पदं ” पितामहः” ।

  • २-१-१ धातुसाधितम् “सञ्जनयन्” । कर्तृपदम् ” पितामहः” । कर्मपदम् “हर्षम्” ।
  • २-१-२ कस्य हर्षम् ? तस्य हर्षम् ।

२-२ “उच्चैः सिंह-नादं विनद्य” ।

  • २-२-१ धातुसाधितम् “विनद्य” । अध्याहृतं कर्तृपदम् ” पितामहः” । कर्मपदम् “सिंहनादम्” ।

२-३ कुरु-वृद्धः प्रतापवान् पितामहः शङ्खं दध्मौ ।

  • २-३-१ क्रियापदं “दध्मौ” । कर्तृपदम् ” पितामहः” । कर्मपदम् “शङ्खम्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ तस्य “तत्” (= he) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।

३-२ सञ्जनयन् “सम् + जन्” ४ आ (= to arouse, to excite) इति धातुः । तस्य प्रयोजकात् वर्तमानकालवाचकं विशेषणम् “सञ्जनयन्” (= one, who arouses, one, who excites) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-३ हर्षम् “हृष्” ४ प (= to be happy, to be excited) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “हर्ष” (= happiness, excitement) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-४ कुरु-वृद्धः “कुरुवृद्ध” (= aged among कुरु-s) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-४-१ कुरुषु वृद्धः = कुरुवृद्धः । सप्तमी-तत्पुरुषः ।
  • ३-४-२ कुरुषु “कुरु” (= descendant of कुरु dynasty) इति पुल्लिङ्गि विशेषनाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
  • ३-४-३ वृद्धः “वृध्” १ आ (= to grow, to grow old) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् “वृद्ध” (= grown, aged) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-५ पितामहः “पितामह” (= grand-father) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-६ सिंह-नादम् “सिंहनाद” (= roar like that of a lion) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-६-१ सिंहस्य (इव) नादः = सिंहनादः । षष्ठी-तत्पुरुषः ।
  • ३-६-२ सिंहस्य “सिंह” (= lion) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-६-३ नादः “नद्” १ प (= to make or to emit sound) इति धातुः । तस्मात् पुल्लिङ्गि नाम “नाद” (= sound, roar) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-७ विनद्य “वि + नद्” १ प (= to emit special sound, to give a shout, to give a clarion call) इति धातुः । तस्मात् कर्तरी-भूतकालवाचकं अव्ययम् “विनद्य” (= on giving a clarion call) ।

३-८ उच्चैः (= loudly) इति अव्ययम् ।

३-९ शङ्खम् “शङ्ख” (= conch-shell) इति पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

३-१० दध्मौ “ध्मा” १ प (= to blow) इति धातुः । तस्य परोक्षभूते प्रथमपुरुषे एकवचनम् च ।

३-११ प्रतापवान् “प्रतापवत्” (= one with valour) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • प्रताप + वत् = प्रतापवत् । वत् = अस्य अस्ति । अतः प्रतापवत् = प्रतापः अस्य अस्ति (= one, who has valour) ।
  • प्रतापः “प्र + तप्” १ प (= to cause scorching effect) इति धातुः । तस्य प्रयोजकात् पुल्लिङ्गि नाम “प्रताप” (= act of valour) ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ तस्य हर्षं सञ्जनयन् प्रतापवान् कुरु-वृद्धः पितामहः उच्चैः सिंह-नादं विनद्य शङ्खं दध्मौ ।
= By beckoning him (Duryodhana) to feel excited, the grand-father, aged among कुरु-s and known for his valour yelled a loud roar and blew his conch-shell.

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

तस्य सञ्जनयन् हर्षं । वर्णाः ८
कुरुवृद्धः पितामहः । वर्णाः ८
सिंहनादं विनद्योच्चैः ।  वर्णाः ८
शङ्खं दध्मौ प्रतापवान् । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ The phrase तस्य हर्षं सञ्जनयन् (= beckoning him (Duryodhana) to feel excited) in this shloka, gives room to doubt whether Duryodhana was really not happy that his army was अपर्याप्त inadequate. Interpretation of shloka 10 by श्रीरामानुजाचार्य, adopting अपर्याप्त to mean inadequate gets some credibility by this phrase तस्य हर्षं सञ्जनयन्.

६-२ However, for the other meaning of अपर्याप्त (= unlimited) it is responsibility of the commander (in this instance, responsibility of पितामह) to ensure that everyone is excited for the task ahead and nobody relaxes by any thought of complacency. By this logic the phrase तस्य हर्षं सञ्जनयन् sounds valid and appropriate.

६-३ All the good information narrated by Duryodhana was also being attentively listened to by पितामह. It was appropriate for पितामह to acknowledge it happily and the next natural action for himself as the commander was to yell out to the army to arouse to action.

  • Then it becomes challenging whether the pronoun तस्य in तस्य हर्षं सञ्जनयन् refers to
  • पितामह himself felt excited or
  • he beckoned Duryodhana to feel excited

६-४ Anyway, excitement is contagious in its spirit. On the battlefield, it of course ought to be !

शुभमस्तु ।

-o-O-o-

Advertisements