Learning together Sanskrit and GeetA (verse 1-3) – Post # 5

Learning together Sanskrit and GeetA (verse 1-3) – Post # 5
संस्कृतभाषायाः श्रीमद्भगवद्गीतायाः (१-३) श्लोकस्य च अध्ययनस्य पञ्चमः (५) सोपानः ।

पश्यैतां पाण्डुपुत्राणां आचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।।१-३।।

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

पश्य एतां पाण्डु-पुत्राणां आचार्य महतीं चमूम् ।
व्यूढां द्रुपद-पुत्रेण तव शिष्येण धीमता ।।१-३।।

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “(त्वं) चमूं पश्य” इति प्रधान-वाक्यांशः । क्रियापदम् “पश्य” । अध्याहृतं कर्तृपदं “त्वम्” । कर्मपदं “चमूम्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ पश्य “दृश्” १ प (= to see)इति धातुः । तस्य आज्ञार्थे मध्यमपुरुषे एकवचनम् ।

३-२ एताम् “एतत्” (= this) इति सर्वनाम । अत्र स्त्रीलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-३ पाण्डुपुत्राणाम् “पाण्डुपुत्र” (= son of PaaNDu) इति सामासिकं नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।

  • ३-३-१ पाण्डोः पुत्रः = पाण्डुपुत्रः । षष्ठी-तत्पुरुषः ।
  • ३-३-२ पाण्डोः “पाण्डु” (= King PaaNDu) इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
  • ३-३-३ पाण्डु (= white) इति विशेषणम् अपि ।
  • ३-३-४ पुत्रः “पुत्र” (= son) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-४ आचार्य “आ + चर्” १ प (= to conduct oneself) इति धातुः । तस्मात् पुल्लिङ्गि नाम “आचार्य” (= teacher) । तस्य संबोधन-प्रथमा विभक्तिः एकवचनं च ।
३-५ महतीम् “महत्” (= large, big, vast) इति विशेषणम् । अत्र स्त्रीलिङ्गि “महती” । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-६ चमूम् “चमू” (= army) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-७ व्यूढाम्  “वि + ऊह् ” १ प (= to set army in formation) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं “व्यूढ” । अत्र स्त्रीलिङ्गि “व्यूढा” (= set in formation) । तस्य द्वितीया विभक्तिः एकवचनं च ।
३-७ द्रुपदपुत्रेण “द्रुपदपुत्र” (= son of Drupada, धृष्टद्युम्न) इति सामासिकं नाम प्रायः विशेषनाम । तस्य तृतीया विभक्तिः एकवचनं च ।

  • ३-७-१ द्रुपदस्य पुत्रः = द्रुपदपुत्रः । षष्ठी-तत्पुरुषः ।
  • ३-७-२  द्रुपदस्य “द्रुपद” (= King Drupada) इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनं च ।

३-८ तव “युष्मद्” (= pronoun of second person, you) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
३-९ शिष्येण “शिष्” १, ७, प १० उ (= to let remain, to vest) इति धातुः । तस्मात् विध्यर्थि विशेषणम् (= he, who can be vested with) प्रायः पुल्लिङ्गि नाम “शिष्य” (= disciple) । तस्य तृतीया विभक्तिः एकवचनं च ।
३-१० धीमता “धीमत्” (= intelligent) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य तृतीया विभक्तिः एकवचनं च ।

  • ३-१०-१ धीमत् = धी + मत् । “मत्”-इति प्रत्ययः “अस्य अस्ति” इति अर्थेण । धीमत् = धीः अस्य अस्ति ।
  • ३-१०-२ धीः “धी” (= intellect, knowledge) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • आचार्य, तव धीमता शिष्येण द्रुपद-पुत्रेण व्यूढां पाण्डुपुत्राणाम् एताम् महतीं चमूम् पश्य ।
  • Teacher ! See this vast army of sons of PaaNDu, arranged in formation by your intelligent disciple and son of King Drpada.

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

पश्यैतां पाण्डुपुत्राणां । वर्णाः ८
२-२-२ २-१-२-२-२ इति मात्राः ।
आचार्य महतीं चमूम्  । वर्णाः ८
२-२-१ १-१-२ १-२ इति मात्राः ।
व्यूढां द्रुपदपुत्रेण । वर्णाः ८
२-२ १-१-१-२-२-(२) इति मात्राः ।
तव शिष्येण धीमता । वर्णाः ८
१-१ २-२-१ २-१-२ इति मात्राः ।

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ In this utterance Duryodhana is addressing आचार्य. It is convention in Sanskrit to address elders honourable and respectable persons by using the respectful pronoun भवान् . For this pronoun, one uses the verb also in प्रथमपुरुष. But here the verb is पश्य which is of मध्यमपुरुष that too आज्ञार्थे i.e. in commanding mood. The verb being पश्य, the implicit subject has to be त्वम्, not भवान् ! May be, this great departure from convention has to be explained as liberty permissible to a poet !

२ There is the mention in this shloka about the army of PaaNDava-s having been set into formation by द्रुपदपुत्रः i.e. by धृष्टद्युम्न, who was also tutored by DroNaachaarya. This mention is rather confusing to me. As far as my knowledge goes,

  • द्रुपद and DroNa were students of DroNa’s father, Muni Bhaaradwaaja. They became good friends. द्रुपद was a prince. He made a promise that on ascending the throne in due course, he would offer any help which DroNa may ever need.
  • After Muni Bhaaradwaaja passed away, DroNa was heaped in poverty. Out of self-respect he did not want to get द्रुपद’s help. But one day his son ashwatthaamaa was crying for milk.His wife KRupee put some floor in water and offered it to ashwatthaama as milk. This made DroNa to keep aside his ego and to go to द्रुपद’s court to seek help. But द्रुपद acted that he did not remember any promise and insulted DroNa for trying to build up false proximity to himself, the King.
  • Later on DroNa was appointed as Aachaarya in Hastinapur to train the princes, Kaurava-s and PaaNDava-s. At the end of their training, as GurudakShiNaa he asked the pupils to fight a war against द्रुपद, arrest him and bring द्रुपद to him. That task was fulfilled only by Arjuna.
  • Obviously, bitter enmity prevailed between द्रुपद and DroNa for all those years until the tutelage of Kaurava princes was completed. This being so, I am wondering, how it happened that द्रुपद’s son धृष्टद्युम्न got training from DroNa !

३ Can one sense that Duryodhana wantonly referred to धृष्टद्युम्न as द्रुपद’s son, may be, to rekindle the vengeance, which DroNa harboured against द्रुपद ?

Can one also sense a sarcasm in Duryodhana’s eulogy of धृष्टद्युम्न as “your intelligent disciple”, as if to suggest “see, how ungrateful धृष्टद्युम्न is ! He is playing an important role in the enemy camp, arranging the army in formation. Is this the way a disciple repays his debt to his Guru ?”

शुभमस्तु ।

-o-O-o-

Advertisements