Learning together Sanskrit and GeetA (Chapter 1 verse 9) – Post # 8

Learning together Sanskrit and GeetA (Chapter 1 verse 9) – Post # 8
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकः ९) अध्ययनस्य अष्टमः (८) सोपानः ।

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||९||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

अन्ये च बहवः शूरा: मत्-अर्थे त्यक्त-जीविताः ।
नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ||९||

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “अन्ये च बहवः शूरा: मदर्थे त्यक्तजीविताः (सन्ति)” इति वाक्यम् ।

  • २-१-१ अत्र अध्याहृतं अकर्मकं क्रियापदम् “(सन्ति)” । कर्तृपदम् “बहवः” । पूरकम् “शूरा: मदर्थे त्यक्तजीविताः” ।

२-२ सर्वे नानाशस्त्रप्रहरणाः युद्धविशारदाः (सन्ति) ।

  • २-२-१ अत्र अध्याहृतं अकर्मकं क्रियापदम् “(सन्ति)” । कर्तृपदम् “सर्वे” । पूरकम् “नानाशस्त्रप्रहरणाः युद्धविशारदाः” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ अन्ये “अन्य” (= other) इति सार्वनामिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-२ च (= and) इति अव्ययम् ।
३-३ बहवः “बहु” (= many) इति अनिश्चित-संख्यावाचकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-४ शूराः “शूर” (= brave) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-५ मदर्थे “मदर्थ” (= my purpose) इति सामासिकं पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।

  • ३-५-१ मम अर्थः = मदर्थः । षष्ठी-तत्पुरुषः ।
    • अत्र “मम”-शब्दतः समासे उपयोजनीयं उपपदम् “मत्” ।
  • ३-५-२ मम “अस्मद्” (= pronoun of first person ‘I, we’) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-५-३ अर्थः “अर्थ” (= purpose) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-६ त्यक्तजीविताः “त्यक्तजीवित” (= one, who has sacrificed one’s life) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-६-१ त्यक्तं जीवितं येन सः = त्यक्तजीवितः । बहुव्रीहिः ।
  • ३-६-२ त्यक्तम् “त्यज्” १ प (= to leave, to sacrifice) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् “त्यक्त” (= sacrificed) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-६-३ जीवितम् “जीव्” १ प (= to live) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् प्रायः नपुंसकलिङ्गि नाम अपि “जीवित” (= life) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-७ नानाशस्त्रप्रहरणाः “नानाशस्त्रप्रहरण” (= one who can strike with variety of weapons) इति  सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा  विभक्तिः बहुवचनम् च ।

  • ३-७-१ नाना शस्त्राणि = नानाशस्त्र । कर्मधारयः ।
  • ३-७-२ नानाशस्त्रैः प्रहरणं यस्य सः = नानाशस्त्र-प्रहरणः । बहुव्रीहिः ।
  • ३-७-३ नाना (= many, varied) इति अनिश्चित-संख्यावाचकं विशेषणार्थि अव्ययम् ।
  • ३-७-४ शस्त्राणि “शस्त्र” (= weapon) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा  विभक्तिः बहुवचनम् च ।
  • ३-७-५ प्रहरणम् “प्र + हृ” १ उ (= to strike) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “प्रहरण” (= striking) । तस्य प्रथमा  विभक्तिः एकवचनम् च ।

३-८ सर्वे “सर्व” (= all) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।

३-९ युद्धविशारदाः “युद्धविशारद” (= skilled at war) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-९-१ युद्धे विशारदः = युद्धविशारदः । सप्तमी-तत्पुरुषः ।
  • ३-९-२ युद्धे “युध्” ४ आ (= to fight) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “युद्ध” (= fight, war) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ३-९-३ विशारदः “विशारद” (= strong, expert) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • विशारं ददाति = विशारदः । उपपद-तत्पुरुषः ।
    • विशारम् “वि + शार्” १० उ (= to be strong, to strengthen) इति धातुः । तस्मात् पुल्लिङ्गि नाम “विशार” (= ) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
      • Note शार् १० उ means (= to be weak, to weaken)
      • So for “वि + शार्” to mean (= to be strong, to strengthen), the prefix “वि” needs to mean “वि = विरुद्धम्”

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ अन्ये च बहवः शूरा: मदर्थे त्यक्तजीविताः (सन्ति) ।
= There are many other brave persons, who are (here, ready to) sacrifice their lives for my purpose.
  • ४-२ सर्वे नानाशस्त्रप्रहरणाः युद्धविशारदाः (सन्ति) ।
= All are capable of wielding variety of weapons and skilled in fighting a war.

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

अन्ये च बहवः शूरा । वर्णाः ८
मदर्थे त्यक्तजीविताः । वर्णाः ८
नानाशस्त्रप्रहरणाः ।  वर्णाः ८
सर्वे युद्धविशारदाः । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ Although the adjective त्यक्तजीवित is a past participle, it has to be taken to mean “ready to sacrifice one’s life”.

२ The prefix वि is used with different shades of meaning. In विशारद the prefix “वि” needs to mean “वि = विरुद्धम्” In other contexts it may mean वि = विशेषम्

३ The list of noteworthy fighters on the side of PaaNDava-s was detailed by Duryodhana in three shloka-s (4, 5 and 6). Similar list on his own side was over in just one shloka (7). As if to make up for the disparity, in this shloka he adds “there are many others..”. Somehow, the list in shloka (7) seems to have missed out the mention of जयद्रथ. But due recognition seems to have been accorded to जयद्रथ by श्रीकृष्ण-भगवान himself in 11-34.

शुभमस्तु ।

-o-O-o-

Advertisements