Learning together Sanskrit and GeetA (Chapter 1 verses -28, 29, 30) – Post # 20

Learning together Sanskrit and GeetA (Chapter 1 verses -28, 29, 30) – Post # 20
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकौ -२८, २९, ३०) अध्ययनस्य विंशतितमः (२०) सोपानः ।
अर्जुन उवाच –
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ।।२८।।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ।।२९।।
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ।।३०।।
निमित्तानि च पश्यामि विपरीतानि केशव ।
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।
अर्जुन: उवाच –
दृष्ट्वा इमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ।।२८।।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथु: च शरीरे मे रोमहर्ष: च जायते ।।२९।।
गाण्डीवं स्रंसते हस्तात् त्वक् च एव परिदह्यते ।
न च शक्नोमि अवस्थातुं भ्रमति इव च मे मनः ।।३०।।
निमित्तानि च पश्यामि विपरीतानि केशव ।

Exercise 2 (a) Paraphrase the clauses

2 (b) Analyse the clauses, identifying the main parts of speech i.e. verbs and participles (verbal derivatives) and subject, object / compliment, conjunctions.

स्वाध्यायः २ अन्वयान् कृत्वा दर्शयतु

  • के अत्र वाक्यांशाः ?
  • कानि संबन्ध-सूचकानि ?
  • कानि क्रियापदानि वा धातुसाधितानि ?
  • कानि अत्र कर्तृपदानि ?
  • कर्मपदानि वा पूरकानि ?

२-१ अन्वयाः –

  • २-१-१ अर्जुन: उवाच
  • २-१-२ कृष्ण, इमं युयुत्सुं समुपस्थितम् स्वजनं दृष्ट्वा
  • २-१-३ मम गात्राणि सीदन्ति ।
  • २-१-४ मुखं च परिशुष्यति ।
  • २-१-५ मे शरीरे वेपथु: च रोमहर्ष: च जायते ।
  • २-१-६ गाण्डीवं हस्तात् स्रंसते ।
  • २-१-७ त्वक् च परिदह्यते एव ।
  • २-१-८ अवस्थातुं च न शक्नोमि ।
  • २-१-९ मे मनः च भ्रमति इव ।
  • २-१-१० केशव, विपरीतानि निमित्तानि च पश्यामि ।

२-२ वाक्यांशानां विश्लेषणानि

२-२-१ “अर्जुन: उवाच”  इति प्रधान-वाक्यांशः ।

  • २-२-१-१ क्रियापदम् “उवाच” ।
  • २-२-१-२ कर्तृपदम् “अर्जुन:” ।

२--२ “कृष्ण, इमं युयुत्सुं समुपस्थितम् स्वजनं दृष्ट्वा” इति क्रियाविशेषणात्मकः गौण-वाक्यांशः ।

  • २-२-२-१ भूतकालवाचकं  धातुसाधितम् “दृष्ट्वा” ।
  • २-२-२-२ कर्मपदम् “स्वजनम्” ।
  • २-२-२-३ संबोधन-पदं “कृष्ण” ।

२-२-३ “मम गात्राणि सीदन्ति” इति प्रधान-वाक्यांशः ।

  • २-२-३-१ क्रियापदम् “सीदन्ति” ।
  • २-२-३-२ कर्तृपदम् “गात्राणि”

२-२-४ “मुखं च परिशुष्यति” इति प्रधान-वाक्यांशः ।

  • २-२-४-१ अकर्मकं क्रियापदं “परिशुष्यति” ।
  • २-२-४-२ कर्तृपदं “मुखम्” ।

२-२-५ “मे शरीरे च वेपथु: जायते रोमहर्ष: च (जायते)” इति प्रधान-वाक्यांशद्वयम् ।

  • २-२-५-१ अकर्मकं क्रियापदं “जायते”। एकस्मिन् वाक्यांशे सुस्पष्टं, अन्यस्मिन् अध्याहृतम् ।
  • २-२-५-२ कर्तृपदे (१) “वेपथुः” (२) “रोमहर्षः” ।

२-२-६ “गाण्डीवं हस्तात् स्रंसते” इति प्रधान-वाक्यांशः ।

  • २-२-६-१ अकर्मकं क्रियापदं “स्रंसते” ।
  • २-२-६-२ कर्तृपदं “गाण्डीवम्” ।

२-२-७ “त्वक् च परिदह्यते एव” इति प्रधान-वाक्यांशः ।

  • २-२-७-१ अकर्मकं क्रियापदं “परिदह्यते” ।
  • २-२-७-२ कर्तृपदं “त्वक्” ।

२-२-८ “अवस्थातुं न शक्नोमि च” इति नकारात्मकः प्रधान-वाक्यांशः ।

  • २-२-८-१ क्रियापदं “शक्नोमि” ।
  • २-२-८-२ अध्याहृतं कर्तृपदं “अहम्” ।

२ -२-९ “मे मनः च भ्रमति इव”  इति प्रधान-वाक्यांशः ।

  • २-२-९-१ अकर्मकं क्रियापदं “भ्रमति” ।
  • २-२-९-२ कर्तृपदं “मनः” ।

२-२-१० “केशव, विपरीतानि निमित्तानि च पश्यामि”  इति प्रधान-वाक्यांशः ।

  • २-२-१०-१ क्रियापदं “पश्यामि” ।
  • २-२-१०-२ अध्याहृतं कर्तृपदं “अहम्” ।
  • २-२-१०-३ कर्मपदं “निमित्तानि” ।
  • २-२-१०-४ संबोधन-पदं “केशव” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ अर्जुनः “अर्जुन” (= name of third पाण्डव) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-२ उवाच “वच्” २ प (= to say, to speak) इति धातुः । तस्य परोक्ष-भूतकाले प्रथमपुरुषे एकवचनम् ।

३-३ दृष्ट्वा “दृश्” १ प. (= to see, to sight) इति धातुः । तस्मात् भूतकालवाचकं क्रियाविशेषणात्मकं अव्ययम् “दृष्ट्वा” (= on seeing) ।

३-४ इमम् “इदम्” (= this) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-५ स्वजनम् “स्वजन” (= relatives, acquaintances) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-५-१ स्वस्य जनः स्वजनः । षष्ठी-तत्पुरुषः ।
  • ३-५-२ स्वस्य “स्व” (= self) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-५-३ जनः “जन” (= persons) इति समूहवाचकम् पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-६ कृष्ण (= Krishna) इति पुल्लिङ्गि विशेषनाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

३-७ युयुत्सुं “युध्” (= to fight, to battle) इति धातुः । तस्मात् इच्छार्थि विशेषणम् “युयुत्सु” (= desirous of fighting) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च । बहुवचनम् च ।

  • ३-७-१ योद्धुम् इच्छति इति युयुत्सुः ।

३-८ समुपस्थितम् “सम् + उप + स्था” १ प. (= to assemble) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “समुपस्थित” (= one, who has assembled) । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-९ सीदन्ति “सद्” १ प (= to fall down, to lose strength) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् च ।

३-१० मम “अस्मद्” (= pronoun of first person, i.e. I, we) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

३-११ गात्राणि “गात्र” (= limb) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-१२ मुखम् “मुख” (= face, mouth, throat) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१३ च (= as also) इति अव्ययम् ।
३-१४ परिशुष्यति “परि + शुष्” (= to become dry) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् च ।
३-१५ वेपथु: “वेपथु” (= trembling) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च । द्वितीया विभक्तिः बहुवचनम् च ।
३-१६ शरीरे “शरीर” (= body) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
३-१७ मे “अस्मद्” (= pronoun of first person, i.e. I, we) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३-१८ रोमहर्ष: “रोमहर्ष” (= bristling of hair) इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-१९जायते “जन्” ४ आ (= to be born, to occur, to happen) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् च ।
३-२० गाण्डीवम् “गाण्डीव” (= name of bow of Arjuna) इति नपुंसकलिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२१ स्रंसते “स्रंस्” १ आ (= to slip) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
३-२२ हस्तात् “हस्त” (= hand) इति पुल्लिङ्गि नाम । तस्य पञ्चमी विभक्तिः एकवचनम् च ।
३-२३ त्वक् (= skin) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-२४ एव (= also, only) इति अव्ययम् ।
३-२५ परिदह्यते “परि + दह्” १ आ (= to heat up) इति धातुः । तस्य कर्मणि-प्रयोगे वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
३-२६ न (= no, not) इति अव्ययम् ।
३-२७ शक्नोमि “शक्” १, ५ प (= to be able) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
३-२८ अवस्थातुम् “अव + स्था” १ प (= to calm down) इति धातुः । तस्मात् तुमन्तं अव्ययम् “अवस्थातुम्” (= to calm down) ।
३-२९ भ्रमति “भ्रम्” १ प (= to circle) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् च ।
३-३० इव (= like) इति अव्ययम् ।
३-३१ मनः “मनस्” (= mind) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-३२ निमित्तानि “निमित्त” (= cause, symptom) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-३३ पश्यामि “दृश्” १ प. (= to see, to sight) इति धातुः । तस्य वर्तमानकाले उत्तमपुरुषे एकवचनम् च ।
३-३४ विपरीतानि “विपरि + इ” १ उ, २ प, ४ आ (= to go otherwise) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “विपरीत” (= gone otherwise, unseemly) । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
३-३५ केशव (= having luxuriant hair) इति विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम (= epithet of Krishna) अपि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

Exercise 4 Arrange the verses in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ अर्जुन: उवाच । = Arjuna said
  • ४-२ कृष्ण, इमं युयुत्सुं समुपस्थितम् स्वजनं दृष्ट्वा = Oh Krishna, on seeing these relatives and acquaintances, assembled to wage a battle
  • ४-३ मम गात्राणि सीदन्ति । = my limbs are losing their strength
  • ४-४ मुखं च परिशुष्यति । = mouth is running dry
  • ४-५ मे शरीरे वेपथु: च रोमहर्ष: च जायते । = my body is trembling and hair (on my body) is standing
  • ४-६ गाण्डीवं हस्तात् स्रंसते । = my bow Gandiva is slipping from my hand
  • ४-७ त्वक् च परिदह्यते एव । = my body is getting heated up
  • ४-८ अवस्थातुं च न शक्नोमि । = I am not able to steady myself
  • ४-९ मे मनः च भ्रमति इव । = my mind is revolving
  • ४-१० केशव, विपरीतानि निमित्तानि च पश्यामि । = Oh Keshava, I am overcome by unseemly symptoms

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

सीदन्ति मम गात्राणि । वर्णाः ८
मुखं च परिशुष्यति । वर्णाः ८
वेपथुश्च शरीरे मे ।  वर्णाः ८
रोमहर्षश्च जायते । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ Although clauses (२-२-३) to (२-२-९) have been identified as main clauses प्रधान-वाक्यांश-s considering that they follow the true main clause “अर्जुन: उवाच” in (२-२-१), in that context they are sub-clauses.

६-२ These verses summarise the symptoms of an attack of hysteria !

६-३ Here Arjuna addresses Krishna by two names – कृष्ण and केशव. This possibly signifies an ardent appeal – Hey Krishna, Hey Keshava !

शुभमस्तु ।

-o-O-o-

Advertisements