Learning together Sanskrit and GeetA (Chapter 1 verses 4, 5, 6) – Post # 6

Learning together Sanskrit and GeetA (Chapter 1 verses 4, 5, 6) – Post # 6
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकाः ४, ५ ६) अध्ययनस्य षष्ठः (६) सोपानः ।

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
युयुधानो विराटश्च द्रुपदश्च महारथः ||४||
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ||५||
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||६||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

अत्र शूरा: महेष्वासा: भीमार्जुनसमा: युधि |
युयुधान: विराट: च द्रुपद: च महारथः ||४||
धृष्टकेतु: चेकितानः काशिराज: च वीर्यवान् |
पुरुजित् कुन्तिभोज: च शैब्य: च नरपुंगवः ||५||
युधामन्यु: च विक्रान्त: उत्तमौजा: च वीर्यवान् |
सौभद्र: द्रौपदेया: च सर्वे एव महारथाः ||६||
Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “(सन्ति)” इति अध्याहृतं अकर्मकं क्रियापदम् । कर्तृपदम् “शूराः” ।

२-२ के के शूराः ? एतत् विवरणं बहुभिः विशेषणसहितैः विशेषनामभिः अथवा बहुभिः गौण-वाक्यांशैः इति मन्तव्यम् । यथा –

(१) युयुधान: (२) विराट: च (३) महारथः द्रुपद: च (४) पुरुजित् कुन्तिभोज: च (५) नरपुंगवः शैब्य: च (६) युधामन्यु: च विक्रान्त: उत्तमौजा: च वीर्यवान् सौभद्र: (७) द्रौपदेया: च

२-३ “सर्वे महारथाः (सन्ति)” इति प्रधान-वाक्यांशः । “(सन्ति)” इति अध्याहृतं अकर्मकं क्रियापदम् । कर्तृपदम् “सर्वे” । पूरकम् “महारथाः” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ अत्र (= here) इति अव्ययम् ।

३-२ शूरा: “शूर” (= brave) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
३-३ महेष्वासा: “महेष्वास” (= having large bows) इति सामासिकं नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-३-१ महान्  इष्वासः यस्य सः = महेष्वासः । बहुव्रीहिः ।
  • ३-३-२ महान् “महत्” (= big, large) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-३-३ इष्वासः “इष्वास” (= bow) इति पुल्लिङ्गि नाम  । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-४ भीमार्जुनसमा: “भीमार्जुनसम” (= one, who is equal to भीम or अर्जुन) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

  • ३-४-१ भीमः च अर्जुनः च = भीमार्जुनः । समाहार-द्वंद्वः ।
  • ३-४-२ भीमार्जुनस्य समः = भीमार्जुनसमः । षष्ठी-तत्पुरुषः ।
  • ३-४-३ भीमः “भीम” (= name of second son of Kunti) इति विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • भीः (= fear) + ‘म’ (= अस्य न अस्ति = has not)  । ‘म’-इति नकारात्मकः प्रत्ययः ।
    • भीम (= one, who has no fear) इति विशेषणमपि ।
  • ३-४-४ अर्जुनः “अर्जुन” (= name of third son of Kunti) इति विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
    • अर्जुन (= pure, blemishless) इति विशेषणमपि ।
  • ३-४-५ समः “सम” (= equal) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-५ युधि “युध्” ४ आ (= to fight) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “युधस्” (= fight, war, battle) । तस्य सप्तमी विभक्तिः एकवचनम् च ।

३-६ युयुधान: “युध्” ४ आ (= to fight) इति धातुः । तस्मात् इच्छार्थकं विशेषणम् “युयुधान” (= eager to fight)  प्रायः पुल्लिङ्गि विशेषनाम (= epithet of सात्यकी) । तस्य प्रथमा  विभक्तिः एकवचनम् च ।
३-७ विराट: “विराट” (= name of a King) इति  पुल्लिङ्गि विशेषनाम । तस्य प्रथमा  विभक्तिः एकवचनम् च ।

३-७-१ विराट (= large, vast) इति विशेषणमपि ।

३-८ च (= and) इति अव्ययम् ।

३-९ द्रुपद: “द्रुपद” (= King Drupada) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-१० महारथः “महारथ” (= the title denoting prowess of a warrior) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१०-१ महान् रथः यस्य सः (= one, who has large chariot, or one whose chariot, i.e. carriage or disposition is imposing and famous) महारथः । बहुव्रीहिः ।
  • ३-१०-२ रथः “रथ” (= chariot) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-११ धृष्टकेतु: “धृष्टकेतु” (= name of a warrior) इति सामासिकं नाम तथा पुल्लिङ्गि विशेषनाम अपि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-११-१ धृष्टः केतुः येन सः (= one who challenged the devilish planet केतु) धृष्टकेतु: । बहुव्रीहिः ।
  • ३-११-२ धृष्टः “धृष्” १ प १० उ (= to challenge) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “धृष्ट” (= challenged) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-११-३ केतुः “केतु” (= the devilish planet केतु) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-१२ चेकितानः “चेकितान” (= name of a warrior) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-१३ काशिराज: “काशिराज” (= king of काशि) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१३-१ काशेः राजन् (= king of काशि) काशिराजः । षष्ठी-तत्पुरुषः ।
  • ३-१३-२ काशेः “काशि” (= name of the city, capital of kingdom of काशि) इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
  • ३-१३-३ राजन् (= king) इति पुल्लिङ्गि नाम । सामासिक-शब्दस्य अन्ते “-राज”-इति अकारान्तेन (at the end of a compound word, राजन् is only राज) ।

३-१४ वीर्यवान् “वीर्यवत्” (= full of bravery) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-१५ पुरुजित् (= one, who conquered पुरु) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१५-१ पुरुः जितः अनेन (= one, who conquered पुरु) पुरुजित् ।
  • ३-१५-२ पुरुः “पुरु” (= name of a king) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-१५-३ जितः “जि” १ प (= to win over) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “जित” (= conquered) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-१६ कुन्तिभोज: “कुन्तिभोज” (= name of a king) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१६-१ कुन्तिः भोगः यस्य सः (= one who enjoyed kingdom of कुन्ति) कुन्तिभोजः । “भोगः यस्य सः”-इति अर्थेण “भोज”-इति प्रत्ययात्मकः प्रयोगः ।
  • ३-१६-२ कुन्तिः “कुन्ति” (= kingdom of name कुन्ति) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-१६-३ भोगः “भुज्” ७ उ (= to enjoy) इति धातुः । तस्मात् पुल्लिङ्गि नाम “भोग” (= enjoyment) । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-१७ शैब्य: “शैब्य” (= name of a warrior) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१७-१ शिबेः वंशजः (= descendant of शिबि) शैब्यः ।
  • ३-१७-२ शिबेः “शिबि” (= name of king) ।
  • ३-१७-३ वंशजः (= descendant) वंशे जातः ।

३-१८ नरपुङ्गवः “नरपुङ्गव” (= eminent among men) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१८-१ नरेषु पुङ्गवः (= eminent among men) नरपुङ्गवः । सप्तमी-तत्पुरुषः ।
  • ३-१८-२ नरेषु “नर” (= man) इति पुल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनं च ।
  • ३-१८-३ पुङ्गवः “पुङ्गव” (= eminent) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-१९ युधामन्यु: “युधामन्यु” (= name of a warrior) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१९-१ युधा मन्यु: यस्य सः (= one, who becomes angry by war) युधामन्यु: । बहुव्रीहिः ।
  • ३-१९-२ युधा “युध्” ४ आ (= to fight, battle) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “युधस्” (= fight, war, battle) । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • ३-१९-३ मन्यु:”मन्यु” (= angry)  इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-२० विक्रान्त: “वि + क्रम्” १, ४ (“वि”-उपसर्गेण आत्मनेपदी) (= to display valour) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “विक्रान्त” (= having valour) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-२१ उत्तमौजा: “उत्तमौजस्” (= name of a warrior) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-२१-१ उत्तमं ओजस् यस्य सः (= one, who has excellent shine or brilliance) उत्तमौजस् । बहुव्रीहिः ।
  • ३-२१-२ उत्तमम् “उत्तम” (= excellent) विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-२१-३ ओजस् (= shine, brilliance) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-२२ सौभद्र: “सौभद्र” (= epithet of अभिमन्यु) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-२२-१ सुभद्रायाः पुत्रः (= son of सुभद्रा) सौभद्रः ।
  • ३-२२-२ सुभद्रायाः “सुभद्रा” (= name of sister of बलराम and श्रीकृष्ण) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।

३-२३ द्रौपदेया: “द्रौपदेय” (= son of द्रौपदी) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-२३-१ द्रौपद्यः पुत्रः (= son of द्रौपदी) द्रौपदेयः ।
  • ३-२३-२ द्रौपद्यः “द्रौपदी” स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
  • ३-२३-३ द्रुपदस्य पुत्री (= daughter of king द्रुपद) द्रौपदी ।

३-२४ सर्वे “सर्व” (= all, everyone) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
३-२५ एव (= only) इति अव्ययम् ।
३-२६ महारथाः “महारथ” (= the title denoting prowess of a warrior) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च । अधिकं विवरणं यथा (३-१०-१)  (३-१०-२) एतयोः विवरणयोः विवृतम् । See more details already given at (३-१०-१)  and (३-१०-२)

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ अत्र युधि भीमार्जुनसमा: शूरा: महेष्वासा: (सन्ति यथा -)
= Here on the battlefield are brave persons (and those) with large bows
  • ४-२ युयुधान: (च) विराट: च = Yuyudhaana and ViraaTa
  • ४-३ महारथः द्रुपद: च = “mahaaratha” Drupada
  • ४-४ धृष्टकेतु: (च) चेकितानः (च) = DhRuShTaketu and Chekitaana
  • ४-५ वीर्यवान् काशिराज: च = valorous king of Kaashi
  • ४-६ पुरुजित् कुन्तिभोज: च = Kuntibhoja (who) conquered Puru
    • अथवा – पुरुजित् (च) or Purujit and
    • कुन्तिभोज: च = Kuntibhoja ( king of Kunti)
  • ४-७ नरपुंगवः शैब्य: च = brilliant Shaibya
  • ४-८ युधामन्यु: च विक्रान्त: उत्तमौजा: च वीर्यवान् सौभद्र: । = Saubhadra (Abhimanyu) who is anger personified in war, who is valorous, is excellently brilliant and brave
    • अथवा – युधामन्यु: च (or) Yudhaamanyu
    • विक्रान्त: (च) Vikraanta
    • उत्तमौजा: च Uttamaujas
    • वीर्यवान् सौभद्र: brave Saubhadra (Abhimanyu)
  • द्रौपदेया: च = sons of Draupadi
  • सर्वे एव महारथाः (सन्ति) = All these known as महारथ-s are (here).

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

अत्र शूरा महेष्वासा । वर्णाः ८
२-१ २-२ १-२-२-२ इति मात्राः ।
भीमार्जुनसमा युधि  । वर्णाः ८
२-२-१-१-१-२ १-(२) इति मात्राः ।
युयुधानो विराटश्च ।  वर्णाः ८
१-१-२-२ १-२-२-(२) इति मात्राः ।
द्रुपदश्च महारथः । वर्णाः ८
१-१-२-१ १-२-१-२ इति मात्राः ।
अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
It is अनुष्टुभ् छन्दः in other two shloka-s also.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ There are many words which are adjectives, but may be proper nouns also. Words to be verified in this context would be नरपुंगवः, युधामन्यु:, विक्रान्त:, उत्तमौजा: and वीर्यवान्

  • Some adjectives may qualify more than one nouns or all nouns
  • To identify which adjectival word is actually a proper noun, a good knowledge of characters caricatured in Mahabharata is essential.
  • Some characters have more-than-one names also. For example
    • युयुधान and सात्यकी are names of one and the same person.
    • Similarly सौभद्र is अभिमन्यु. युधामन्यु can be adjective of सौभद्र or
      • युधामन्यु may be a different person.
    • Likewise पुरुजित् may be an adjective of कुन्तिभोज or the two may be two different persons.
  • Keeping this in mind, various अन्वया: and अनुवादा: are possible.

२ Listed in these shloka-s are names of prominent warriors in the army of पाण्डवाः. Name of धृष्टद्युम्न was already mentioned in the previous shloka, as the one who set the army into formation. There are specific  reasons in their biographies, which explain their being in the army of पाण्डवाः.

  • द्रौपदेया: were sons of Draupadi and grandsons of द्रुपद. So, as many as three generations were on the battlefield. Actually counting from भीष्मपितामह द्रौपदेया: were the fourth generation. It becomes an interesting family-tree !
    • भीष्मपितामह had taken a vow not to marry. So, after शंतनु, विचित्रवीर्य was enthroned. He did not live long.
    • Blessed by व्यास-मुनि धृतराष्ट्र पाण्डु were born of wives of विचित्रवीर्य – अम्बिका and अम्बालिका, respectively.
    • With the boon of दुर्वास-ऋषि पाण्डु’s wife कुन्ति was blessed with युधिष्ठिर, भीम and अर्जुन. With the same Mantra, माद्री second wife of पाण्डु  was blessed with नकुल and सहदेव. Thus the five पाण्डवाः
    • पाण्डवाः married द्रौपदी and द्रौपदेया: were her sons. They were five – प्रतिविन्ध्य, श्रुतकीर्ति, श्रुतसोम, शतानीक, and श्रुतसेन.
  • द्रुपद being father of द्रौपदी and father-in-law of पाण्डवाः was of course there on the side of पाण्डवाः also for his enmity with द्रोणाचार्य
  • काशिराज had been offended long years back by भीष्मपितामह when he had carried away by force his daughters अम्बा अम्बिका and अम्बालिका to be married to विचित्रवीर्य
    • Of these अम्बा was reborn as daughter of द्रुपद, but had become man शिखण्डी by exchanging sex with a यक्ष
    • भीष्मपितामह had vowed that he would not fight with anybody who was female sometime in life. Both भीष्मपितामह and श्रीकृष्ण were त्रिकालदर्शी (one who could envision across all three time zones – Past, Present and Future). Both knew that शिखण्डी was a girl at birth. अर्जुन used शिखण्डी as the shield to fell भीष्मपितामह

३ Mention of कुन्तिभोज is also interesting. कुन्ति Mother of पाण्डवाः was the princess of कुन्ति May be, कुन्तिभोज was her father and grand-father of पाण्डवाः In the army of पाण्डवाः there also was सौभद्र (अभिमन्यु). Again three generations ?

Mention of शैब्य: in the list of warriors here takes one to the story of the king शिबि. The story as can be learnt from Apte’s dictionary is – “…शिबि Name of a king, who is said to have saved Agni who sought refuge with शिबि flying disguised as a dove. Indra was chasing Agni in the form of a hawk. शिबि boldly told Indra that as a king he was duty-bound to save who sought his refuge. शिबि offered his own flesh of weight equal to that of the dove…”

  • Water is always eager to drowse the fire. Indra is the deity commanding the rains (water). In the story mention of Indra pursuing Agni could as well be symbolic.
  • Hoe beautifully the story brings out the duty of a king to protect a refugee !

६-५ The names of धृष्टकेतु and चेकितान may also have some fame, worthy of their specific mention by दुर्योधन ।

६-६ The word महारथ also merits some detailing. A महारथ is defined as एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्र-शास्त्र-प्रवीणश्च विज्ञेयः स महारथः ।। One who can alone fight against 10,000 archers and who is well-versed with the sciences (and techniques of) various arms and weapons is known as महारथ.

शुभमस्तु ।

-o-O-o-

Advertisements