Learning together Sanskrit and GeetA (Chapter 1 verses 7, 8) – Post # 7

Learning together Sanskrit and GeetA (Chapter 1 verses 7, 8) – Post # 7
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकाः ७, ८) अध्ययनस्य सप्तमः (७) सोपानः ।
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ||७||
भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः |
अश्वत्थामा विकर्णश्च सोमदत्तिस्तथैव च ||८||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

अस्माकं तु विशिष्टा: ये तान् निबोध द्विजोत्तम |
नायका: मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ||७||
भवान् भीष्म: च कर्ण: च कृप: च समितिंजयः |
अश्वत्थामा विकर्ण: च सोमदत्ति: तथा एव च ||८||
Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ द्विजोत्तम अस्माकं तु ये विशिष्टा: मम सैन्यस्य नायका: (सन्ति) तान् ते संज्ञार्थं ब्रवीमि तान् निबोध इति वाक्यम् ।

  • २-१-१ ये अस्माकं विशिष्टा: मम सैन्यस्य नायका: (सन्ति) गौण-वाक्यांशः । अत्र अध्याहृतं अकर्मकं क्रियापदम् “(सन्ति)” । कर्तृपदम् “ये” । पूरकम् “अस्माकं विशिष्टा: मम सैन्यस्य नायकाः च” ।
  • २-१-२ तान् ते संज्ञार्थं (अहं) ब्रवीमि इति प्रधान-वाक्यांशः । क्रियापदं “ब्रवीमि” । एतत्क्रियापदं वर्तमानकाले उत्तमपुरुषीयम् । अतः अध्याहृतं कर्तृपदम् “अहम्” । कर्मपदं “तान्” ।
  • २-१-३ “तान् (त्वम्) निबोध” इति प्रधान-वाक्यांशः । क्रियापदं “निबोध” । एतत्क्रियापदं आज्ञार्थे मध्यमपुरुषीयम् । अतः अध्याहृतं कर्तृपदम् “त्वम्” । कर्मपदं “तान्” ।

२-२ के के “अस्माकं विशिष्टा: मम सैन्यस्य नायकाः च” ?

(१) भवान् (२) भीष्म: (३) कर्ण: (४) कृप: (५) समितिंजयः (६) अश्वत्थामा (७) विकर्ण: (८) सोमदत्ति:

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ अस्माकम् “अस्मद्” (= pronoun of first person ‘I, we’) इति सर्वनाम । तस्य षष्ठी विभक्तिः बहुवचनं च ।

३-२ तु (= but, however) इति अव्ययम् ।
३-३ विशिष्टाः “वि + शिष्” १ प., ७ प., १० उ. (= to stand out) इति धातुः । तस्मात् कर्मणि-प्रयोगान्वितं भूतकालवाचकं विशेषणम् “विशिष्ट” (= outstanding, special) । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-४ ये “यत्” (= conjunctive pronoun ‘he –> who’ etc.) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-५ तान् “तत्” (= that) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः बहुवचनम् च ।

३-६ निबोध “नि + बुध्” १ प ४ आ (= to know) इति धातुः । तस्य आज्ञार्थे मध्यमपुरुषे एकवचनम् च ।
३-७ द्विजोत्तम इति  सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य संबोधन-प्रथमा  विभक्तिः एकवचनम् च ।

  • ३-७-१ द्वि जायते इति द्विजः । उपपद-तत्पुरुषः ।
  • ३-७-२ द्विजेषु उत्तमः इति द्विजोत्तमः । सप्तमी तत्पुरुषः ।
  • ३-७-३ द्वि (= two) इति संख्यावाचकं विशेषणम् । अत्र क्रियाविशेषणार्थेण (= twice) ।
  • ३-७-४ जायते “जन्” ४ आ (= to be born) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।
  • ३-७-५ द्विजेषु “द्विज” (= one, who is born twice) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य सप्तमी  विभक्तिः बहुवचनम् च ।
  • ३-७-६ उत्तमः “उत्तम” (= excellent) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य सप्तमी  विभक्तिः एकवचनम् च ।
  • ३-७-७ द्विजोत्तम (= excellent among those, who are born twice)

३-८ नायका: “नायक” (= leader, commander) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनं च ।

३-९ मम “अस्मद्” (= pronoun of first person ‘I, we’) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
३-१० सैन्यस्य “सैन्य” (= army) इति नाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनं च ।

३-११ संज्ञार्थं “संज्ञार्थ” (= purpose of knowing) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च । अत्र क्रियाविशेषणात्मक: उपयोगः (= “FYI” For Your Information) ।

  • ३-११-१ संज्ञायाः अर्थः इति संज्ञार्थ: । षष्ठी-तत्पुरुषः ।
  • ३-११-२ संज्ञायाः “सम् + ज्ञा” २ प (= to know overall) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “संज्ञा” (= overall knowledge) । तस्य षष्ठी विभक्तिः एकवचनं च ।
  • ३-११-३ सम्यक् ज्ञानं अनया इति संज्ञा ।
  • ३-११-४ सम्यक् = comprehensive, appropriate, overall.
  • ३-११-५ अर्थः “अर्थ” (= purpose, meaning) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-११-६ संज्ञार्थम् = for the purpose of overall knowledge, “FYI” For Your Information

३-१२ ब्रवीमि “ब्रू” २ उ (= to say, to tell) इति धातुः । तस्य लट्-वर्तमाने उत्तमपुरुषे एकवचनम् ।
३-१३ ते “युष्मद्” (= pronoun of second person ‘you’) इति सर्वनाम । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
३-१४ भवान् “भवत्” (= pronoun of second person ‘you’ in respectful mode) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-१५ भीष्म: “भीष्म” (= BheeShma) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१५-१ भीः + म = भीष्म (= fearless) । अत्र नकारात्मकः “म”-प्रत्ययः ।
  • ३-१५-२ भीः “भी” ३ प (= to fear) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “भी” (= fear) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • Difference between भीष्म and भीम is –
    • भीष्म is अलुक् type conjugation, since the visarga inherent in भीः, i.e. feature of the declension is not dropped when म is suffixed
    • भीम is लुक् type of conjugation, since the visarga inherent in भीः feature of the declension is dropped when म is suffixed

३-१६ च (= and) इति अव्ययम् ।
३-१७ कर्ण: “कर्ण” (= name of a warrior) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१७-१ कर्ण: “कर्ण” (= ear) इति पुल्लिङ्गि नाम अपि । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-१८ कृप: “कृप” (= name of another teacher of Kuru princes) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-१९ समितिंजयः “समितिंजय” (= name of a warrior) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१९-१ समितिं जयति इति समितिंजय: । उपपद-तत्पुरुषः । “जयति”-इति अर्थेण “जय”-इति उपपदम् ।
  • ३-१९-२ समितिं “समिति” (= fight, war, battle) इति स्त्रीलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३-१९-३ जयति “जि” १ प (= to win, to be victorious) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनं ।
  • ३-१९-४ समितिंजयः is also अलुक् type conjugation, since the अनुस्वार, the feature of the declension is not dropped

३-२० अश्वत्थामा “अश्वत्थामन्” (= name of son of द्रोणाचार्य) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-२१ विकर्ण: “विकर्ण” (= name of a warrior) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-२१-१ विशेषः कर्णः यस्य सः (= one, who has special ear) विकर्णः । बहुव्रीहिः ।
  • ३-२१-२ विशेषः “वि + शिष्” १ प., ७ प., १० उ. (= to stand out) इति धातुः । तस्मात् विशेषणम् “विशेष” (= outstanding, special) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-२१-३ कर्णः “कर्ण” (= ear) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।

३-२२ सोमदत्ति: “सोमदत्ति” (= name of a warrior) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
३-२३ तथा (= similarly, likewise, also, and) इति अव्ययम् ।
३-२४ एव (= only) इति अव्ययम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ द्विजोत्तम अस्माकं तु ये विशिष्टा: मम सैन्यस्य नायका: (सन्ति) तान् ते संज्ञार्थं ब्रवीमि तान् निबोध ।
= (Sir), Excellent among persons who are born twice, I shall tell, for your information, names of those who are special on our side and who are commanders of my army. Please know them.
  • ४-२ (अस्माकं विशिष्टा: मम सैन्यस्य नायकाः सन्ति ) (They are – )
    (१) भवान् (च) (२) भीष्म: च (३) कर्ण: च (४) कृप: च (५) समितिंजयः (६) अश्वत्थामा (च) (७) विकर्ण: च तथा (८) सोमदत्ति: एव

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

अस्माकं तु विशिष्टा ये । वर्णाः ८
तान्निबोध द्विजोत्तम । वर्णाः ८
नायका मम सैन्यस्य ।  वर्णाः ८
संज्ञार्थं तान्ब्रवीमि ते । वर्णाः ८

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
It is अनुष्टुभ् छन्दः in the second shloka also.
Hereafter we shall analyse the meter only when it is different than अनुष्टुभ् छन्दः ।

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ There are eight prominent persons mentioned in the second shloka. The adjectival mention विशिष्टा: (prominent) and मम सैन्यस्य नायका: (commanders of my army) apply to all of them.

  • The commanders were to be commanders in succession, not all of them to be commanders simultaneously.
  • The war lasted for 18 days (again the number 18 !)
    • भीष्मपितामह commanded the army for 10 days
    • द्रोणाचार्य commanded it for next 5 days
    • कर्ण for next 2 days
    • शल्य for balance 1 day, actually only half day, when भीम defeated दुर्योधन in a duel.
  • शल्य was primarily a charioteer. That may be the reason, why his name was not mentioned by दुर्योधन
  • The succession of commanders also re-endorses why दुर्योधन was referred to as राजा. War would not stop, if a commander falls. Another commander will take over. But war must stop if the राजा is captured or defeated.

२ Since all the eight persons are prominent विशिष्ट, reason for their prominence merits to be noted.

  • भवान् (= द्रोणाचार्य) He was appointed teacher for the Kuru-princes when he impressed the princes with his skills. It so happened that the princes were playing with a ball. Inadvertently their ball fell into a deep well. द्रोणाचार्य reached there in the nick of time. He asked the princes to bring a bow and an arrow. He aimed an arrow so skillfully that the ball got tossed out of the well. The princes took him to भीष्मपितामह who promptly appointed द्रोणाचार्य to train the princes in all the military skills.
  • भीष्म was the grandfather of the Kuru princes. He was there in the battle only because he had taken the vow that even if he would himself not occupy the throne, he shall always be on the side of the ruler, who occupied the throne.
  • कर्ण was obliged to दुर्योधन because it was only दुर्योधन who made him eligible to challenge अर्जुन during public demonstration of skills acquired by the princes after their tutelage by द्रोणाचार्य
    • Only a prince could challenge a prince. दुर्योधन then and there bestowed upon कर्ण the Lordship of कर्ण’s place i.e. अङ्गदेश
  • कृप is better known as कृपाचार्य because he also partook in the tutelage of the princes. Actually कृप and his sister कृपी had been abandoned by their parents and their upbringing was undertaken by the then kind-hearted king शन्तनु  Hence कृप was indebted to the throne for all his life. He is acknowledged to be one of the seven immortals. अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ।।
  • I do not know much about समितिञ्जय, विकर्ण and सोमदत्ति
  • अश्वत्थामा was son of द्रोणाचार्य. He was given this name because of his extraordinary lustre and prowess even at his infancy. अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् । अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ।।
    • This shloka evidences how name अश्वत्थामा inherently connotes ‘unit’ of measurement of “power” – the ‘horsepower’ !
    • अश्वत्थामा is also acknowledged to be one of seven चिरंजीवी-s as noted in the shloka above.

३ कर्ण was possibly given this name because of lustrous lobes of his ears. However विकर्ण possibly earned this epithet by special skills of his listening to distant sounds. During the public demonstration of skills by princes अर्जुन demonstrated his skill of नादवेध striking a target blindfold by shooting only by sensing the direction from which a specific sound came. कर्ण equalled अर्जुन even in this very, very special skill. Possibly विकर्ण also had such special skill. That is why विशेषः कर्णः यस्य, सः विकर्णः ।

६-४ The word द्विजोत्तम merits special explanation. In सनातन धर्म 16 संस्काराः are specified to be observed, starting from naming a child नामकरण to post-death अन्त्येष्टि and श्राद्ध. An important one among the 16 is उपनयन, i.e. sending the child to the आश्रम of आचार्य for learning. A person is supposed to be reborn after the उपनयन. This संस्कार was mandatory for Brahmins. So, Brahmins in particular are called as द्विज. Is not a learned person a different personality ? One should become द्विज on undergoing learning. Even a serpent casts away its skin. And after that the serpent has a rejuvenated personality ! To become द्विज should be a goal for learning !

शुभमस्तु ।

-o-O-o-

Advertisements