Learning together Sanskrit and GeetA (Chapter 1 verse 11) – Post # 10

Learning together Sanskrit and GeetA (Chapter 1 verse 11) – Post # 10
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकः ११) अध्ययनस्य दशमः (१०) सोपानः ।
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||११||
Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

अयनेषु च सर्वेषु यथाभागम् अवस्थिताः ।
भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि ||११||

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि क्रियाविशेषणात्मक-धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?
२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ?

२-१ “सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः च सर्वे एव हि भीष्मम् एव अभिरक्षन्तु”  इति वाक्यम् ।

  • २-१-१ अत्र क्रियापदम् “अभिरक्षन्तु” । कर्तृपदम् “भवन्तः सर्वे” । पूरकम् “भीष्मम्” ।
  • २-१-२  भवन्तः सर्वे कुत्र अवस्थिताः ? सर्वेषु अयनेषु अवस्थिताः ।
  • २-१-३ सर्वेषु अयनेषु कथम् अवस्थिताः ? यथाभागम् अवस्थिताः ।
  • २-१-४ “सर्वेषु अयनेषु यथाभागम् अवस्थिताः” इति विशेषणात्मकः वाक्यांशः । “भवन्तः सर्वे” इति अत्र विशेष्यपदे ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

३-१ अयनेषु “अय्” १ आ अथवा “इ” २ प १ उ ४ आ (= to go, to come) इति धातवः । तस्मात् नपुंसकलिङ्गि नाम “अयन” (= going, coming, gate, front in a war) । तस्य सप्तमी विभक्तिः बहुवचनम् च ।

३-२ च (= and) इति अव्ययम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-३ सर्वेषु “सर्व” (= all) इति सर्वनाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।

३-४ यथाभागम् “यथाभाग” (= as per lot) इति सामासिकं पुल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च । तेन यथाभागम् (= as assigned) इति क्रियाविशेषणात्मकः प्रयोगः ।

  • ३-४-१ यथा भागम् = यथाभागम् । अव्ययीभावः ।
  • ३-४-२ यथा (= as) इति अव्ययम् ।
  • ३-४-३ भागम् “भाज्” १० उ (= to distribute, to assign) इति धातुः । तस्मात् पुल्लिङ्गि नाम “भाग” (= lot, allotment, distribution) । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-५ अवस्थिताः “अव + स्था” १ प (= to be in a situation, to be in a place) इति धातुः । तस्मात् कर्मणि-प्रयोगवाचकं भूतकालवाचकं च विशेषणम् “अवस्थित” (= having been at a place) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-६ भीष्मम् “भीष्म” (= name of the father figure of Kaurava-s) इति पुल्लिङ्गि विशेषनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

३-७ एव (= only) इति  अव्ययम् ।

३-८ अभिरक्षन्तु “अभि + रक्ष्” १ प (= to ward, to look after) इति धातुः । तस्य आज्ञार्थे प्रथमपुरुषे बहुवचनम् ।

३-९ भवन्तः “भवत्” (= you) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-१० सर्वे “सर्व” (= all) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३-११ हि (= also, because) इति  अव्ययम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।

  • ४-१ सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः च सर्वे एव हि भीष्मम् एव अभिरक्षन्तु ।
= Yourself and also all, being at their appointed places on all fronts, should look after भीष्म only.

Exercise 5 In what meter is this verse composed ?

स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –
अयनेषु च सर्वेषु । वर्णाः ८
यथाभागमवस्थिताः । वर्णाः ८
भीष्ममेवाभिरक्षन्तु ।  वर्णाः ८
भवन्तः सर्व एव हि । वर्णाः ८
अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.

Exercise 6 Comments, Notes, Observations, if any.

स्वाध्यायः ६ टिप्पणयः ।

१ In the previous shloka, Duryodhana had mentioned that his army was warded by भीष्म. Here he says, “yourself and also all should look after भीष्म only”. How beautifully it is brought out in these two shloka-s together that in a battle, the commandant and the army are interdependent. Every member of the army discharges the responsibility by fighting from one’s appointed place. That discipline is the most important rule for every warrior fighting a battle.

शुभमस्तु ।

-o-O-o-

Advertisements